sanskrit literature
Sunday, July 12, 2020
Indexing k liye h bc
Monday, July 15, 2019
अगस्त्यगीता | agastyagItA - Sanskrit-literature
स्मरा चास्मि विशोका परमेश्वर ॥ ५१.४॥
यदि नाम परं देव कौतुकं हृदि वर्तते ।
अगस्त्यः पुनरागत्य भद्राश्वस्य निवेशनम् ।
यच्चकार स राजा च तन्ममाचक्ष्व भूधर ॥ ५१.५॥
श्रीवराह उवाच ।
प्रत्यागतमृषिं दृष्ट्वा भद्राश्वः श्वेतवाहनः ।
वरासनगतं दृष्ट्वा कृत्वा पूजां विशेषतः ।
अपृच्छन्मोक्षधर्माख्यं प्रश्नं सकलधारिणि ॥ ५१.६॥
भद्राश्व उवाच ।
भगवन् कर्मणा केन छिद्यते भवसंसृतिः ।
किं वा कृत्वा न शोचन्ति मूर्त्तामूर्त्तोपपत्तिषु ॥ ५१.७॥
अगस्त्य उवाच ।
शृणु राजन् कथां दिव्यां दूरासन्नव्यवस्थिताम् ।
दृश्यादृश्यविभागोत्थां समाहितमना नृप ॥ ५१.८॥
नाहो न रात्रिर्न दिशोऽदिशश्च
न द्यौर्न देवा न दिनं न सूर्यः ।
तस्मिन् काले पशुपालेति राजा
स पालयामास पशूननेकान् ॥ ५१.९॥
तान् पालयन् स कदाचिद् दिदृक्षुः
पूर्वं समुद्रं च जगाम तूर्णम् ।
अनन्तपारस्य महोदधेस्तु
तीरे वनं तत्र वसन्ति सर्पाः ॥ ५१.१०॥
अष्टौ द्रुमाः कामवहा नदी च
तुर्यक् चोद्र्ध्वं बभ्रमुस्तत्र चान्ये ।
पञ्च प्रधानाः पुरुषास्तथैकां
स्त्रियं बिभ्रते तेजसा दीप्यमानाम् ॥ ५१.११॥
साऽपि स्त्री स्वे वक्षसि धारयन्ती
सहस्रसूर्यप्रतिमं विशालम् ।
तस्याधरस्त्रिर्विकारस्त्रिवर्ण-
स्तं राजानं पश्य परिभ्रमन्तम् ॥ ५१.१२॥
तूष्णींभूता मृतकल्पा इवासन्
नृपोऽप्यसौ तद्वनं संविवेश ।
तस्मिन् प्रविष्टे सर्व एते विविशु-
र्भयादैक्यं गतवन्तः क्षणेन ॥ ५१.१३॥
तैः सर्पैः स नृपो दुर्विनीतैः
संवेष्टितो दस्युभिश्चिन्तयानः ।
कथं चैतेन भविष्यन्ति येन
कथं चैते संसृताः संभवेयुः ॥ ५१.१४॥
एवं राज्ञश्चिन्तयतस्त्रिवर्णः पुरुषः परः ।
श्वेतं रक्तं तथा कृष्णं त्रिवर्णं धारयन्नरः ॥ ५१.१५॥
स संज्ञां कृतवान् मह्यमपरोऽथ क्व यास्यसि ।
एवं तस्य ब्रुवाणस्य महन्नाम व्यजायत ॥ ५१.१६॥
तेनापि राजा संवीतः स बुध्यस्वेति चाब्रवीत् ।
एवमुक्ते ततः स्त्री तु तं राजानं रुरोध ह ॥ ५१.१७॥
मायाततं तं मा भैष्ट ततोऽन्यः पुरुषो नृपम् ।
संवेष्ट्य स्थितवान् वीरस्ततः सर्वेश्वरेश्वरः ॥ ५१.१८॥
ततोऽन्ये पञ्च पुरुषा आगत्य नृपसत्तमम् ।
संविष्ट्य संस्थिताः सर्वे ततो राजा विरोधितः ॥ ५१.१९॥
रुद्धे राजनि ते सर्वे एकीभूतास्तु दस्यवः ।
मथितुं शस्त्रमादाय लीनाऽन्योऽन्यं ततो भयात् ॥ ५१.२०॥
तैर्लीनैर्नृपर्तेर्वेश्म बभौ परमशोभनम् ।
अन्येषामपि पापानां कोटिः साग्राभवन्नृप ॥ ५१.२१॥
गृहे भूसलिलं वह्निः सुखशीतश्च मारुतः ।
सावकाशानि शुभ्राणि पञ्चैकोनगुणानि च ॥ ५१.२२॥
एकैव तेषां सुचिरं संवेष्ट्यासज्यसंस्थिता ।
एवं स पशुपालोऽसौ कृतवानञ्जसा नृप ॥ ५१.२३॥
तस्य तल्लाघवं दृष्ट्वा रूपं च नृपतेर्मृधे ।
त्रिवर्णः पुरुषो राजन्नब्रवीद् राजसत्तमम् ॥ ५१.२४॥
त्वत्पुत्रोऽस्मि महाराज ब्रूहि किं करवाणि ते ।
अस्माभिर्बन्धुमिच्छद्भिर्भवन्तं निश्चयः कृतः ॥ ५१.२५॥
यदि नाम कृताः सर्वे वयं देव पराजिताः ।
एवमेव शरीरेषु लीनास्तिष्ठाम पार्थिव ॥ ५१.२६॥
मर्य्येके तव पुत्रत्वं गते सर्वेषु संभवः ।
एवमुक्तस्ततो राजा तं नरं पुनरब्रवीत् ॥ ५१.२७॥
पुत्रो भवति मे कर्त्ता अन्येषामपि सत्तम ।
युष्मत्सुखैर्नरैर्भावैर्नाहं लिप्ये कदाचन ॥ ५१.२८॥
एवमुक्त्वा स नृपतिस्तमात्मजमथाकरोत् ।
तैर्विमुक्तः स्वयं तेषां मध्ये स विरराम ह ॥ ५१.२९॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकपञ्चाशोऽध्यायः ॥ ५१॥
अगस्त्य उवाच ।
स त्रिवर्णो नृपोत्सृष्टः स्वतन्त्रत्वाच्च पार्थिव ।
अहं नामानमसृजत् पुत्रं पुत्रस्त्रिवर्णकम् ॥ ५२.१॥
तस्यापि चाभवत् कन्या अवबोधस्वरूपिणी ।
सा तु विज्ञानदं पुत्रं मनोह्वं विससर्ज ॥ ५२.२॥
तस्यापि सर्वरूपाः स्युस्तनयाः पञ्चभोगिनः ।
यथासंख्येन पुत्रास्तु तेषामक्षाभिधानकाः ॥ ५२.३॥
एते पूर्वं दस्यवः स्युस्ततो राज्ञा वशीकृताः ।
अमूर्त्ता इव ते सर्वे चक्रुरायतनं शुभम् ॥ ५२.४॥
नवद्बारं पुरं तस्य त्वेकस्तम्भं चतुष्पथम् ।
नदीसहस्रसंकीर्ण जलकृत्य समास्थितम् ॥ ५२.५॥
तत्पुरं ते प्रविविशुरेकीभूतास्ततो नव ।
पुरुषो मूर्त्तिमान् राजा पशुपालोऽभवत् क्षणात् ॥ ५२.६॥
Read Also: URLS URLS2
ततस्तत्पुरसंस्थस्तु पशुपालो महानृपः ।
संसूच्य वाचकाञ्छब्दान् वेदान् सस्मार तत्पुरे ॥ ५२.७॥
आत्मस्वरूपिणो नित्यास्तदुक्तानि व्रतानि च ।
नियमान् क्रतवश्चैव सर्वान् राजा चकार ह ॥ ५२.८॥
स कदाचिन्नृपः खिन्नः कर्मकाण्डं प्ररोचयन् ।
सर्वज्ञो योगनिद्रायां स्थित्वा पुत्रं ससर्ज ह ॥ ५२.९॥
चतुर्वक्त्रं चतुर्बाहुं चतुर्वेदं चतुष्पथम् ।
तस्मादारभ्य नृपतेर्वशे पश्वादयः स्थिताः ॥ ५२.१०॥
तस्मिन् समुद्रे स नृपो वने तस्मिंस्तथैव च ।
तृणादिषु नृपस्सैव हस्त्यादिषु तथैव च ।
समोभवत् कर्मकाण्डादनुज्ञाय महामते ॥ ५२.११॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्वापञ्चाशोऽध्यायः ॥ ५२॥
भद्राश्व उवाच ।
मत्प्रश्नविषये ब्रह्मन् कथेयं कथिता त्वया ।
तस्या विभूतिरभवत् कस्य केन कृतेन ह ॥ ५३.१॥
अगस्त्य उवाच ।
आगतेयं कथा चित्रा सर्वस्य विषये स्थिता ।
त्वद्देहे मम देहे च सर्वजन्तुषु सा समा ॥ ५३.२॥
तस्यां संभूतिमिच्छन् यस्तस्योपायं स्वयं परम् ।
पशुपालात् समुत्पन्नो यश्चतुष्पाच्चतुर्मुखः ॥ ५३.३॥
स गुरुः स कथायास्तु तस्याश्चैव प्रवर्त्तकः ।
तस्य पुत्रः स्वरो नाम सप्तमूर्तिंरसौ स्मृतः ॥ ५३.४॥
तेन प्रोक्तं तु यत्किंचित् चतुर्णां साधनं नृप ।
ऋगर्थानां चतुर्भिस्ते तद्भक्त्याराध्यतां ययुः ॥ ५३.५॥
चतुर्णां प्रथमो यस्तु चतुःशृङ्गसमास्थितः ।
वृषद्वितीयस्तत्प्रोक्तमार्गेणैव तृतीयकः ।
चतुर्थस्तत्प्रणीतस्तां पूज्य भक्त्या सुतं व्रजेत् ॥ ५३.६॥
सप्तमूर्त्तेस्तु चरितं शुश्रुंवुः प्रथमं नृप ।
ब्रह्मचर्येण वर्त्तेत द्वितीयोऽस्य सनातनः ॥ ५३.७॥
ततो भृत्यादिभरणं वृषभारोहणं त्रिषु ।
वनवासश्च निर्द्दिष्ट आत्मस्थे वृषभे सति ॥ ५३.८॥
अहमस्मि वदत्यन्यश्चतुर्द्धा एकधा द्विधा ।
भेदभिन्नसहोत्पन्नास्तस्यापत्यानि जज्ञिरे ॥ ५३.९॥
नित्यानित्यस्वरूपाणि दृष्ट्वा पूर्वं चतुर्मुखः ।
चिन्तयामास जनकं कथं पश्याम्यहं नृप ॥ ५३.१०॥
मदीयस्य पितुर्ये हि गुणा आसन् महात्मनः ।
न ते सम्प्रति दृश्यन्ते स्वरापत्येषु केषुचित् ॥ ५३.११॥
पितुः पुत्रस्य यः पुत्रः स पितामहनामवान् ।
एवं श्रुतिः स्थिता चेयं स्वरापत्येषु नान्यथा ॥ ५३.१२॥
क्वापि सम्पत्स्यते भावो द्रष्टव्यश्चापि ते पिता ।
एवं नीतेऽपि किं कार्यमिति चिन्तापरोऽभवत् ॥ ५३.१३॥
तस्य चिन्तयतः शस्त्रं पितृकं पुरतो बभौ ।
तेन शस्त्रेण तं रोषान्ममन्थ स्वरमन्तिके ॥ ५३.१४॥
तस्मिन् मथितमात्रे तु शिरस्तस्यापि दुर्ग्रहम् ।
नालिकेरफलाकारं चतुर्वक्त्रोऽन्वपश्यत ॥ ५३.१५॥
तच्चावृतं प्रधानेन दशधा संवृतो बभौ ।
चतुष्पादेन शस्त्रेण चिच्छेद तिलकाण्डवत् ॥ ५३.१६॥
प्रकामं तिलसंच्छिन्ने तदमूलौ न मे बभौ ।
अहं त्वहं वदन् भूतं तमप्येवमथाच्छिनत् ॥ ५३.१७॥
तस्मिन् छिन्ने तदस्यांसे ह्रस्वमन्यमवेक्षत ।
अहं भूतादि वः पञ्च वदन्तं भूतिमन्तिकात् ॥ ५३.१८॥
तमप्येवमथो छित्त्वा पञ्चाशून्यममीक्षत ।
कृत्वावकाशं ते सर्वे जल्पन्त इदमन्तिकात् ॥ ५३.१९॥
तमप्यसङ्गशस्त्रेण चिच्छेद तिलकाण्डवत् ।
तस्मिंच्छिन्ने दशांशेन ह्रस्वमन्यमपश्यत ॥ ५३.२०॥
पुरुषं रूपशस्त्रेण तं छित्त्वाऽन्यमपश्यत ।
तद्वद् ह्रस्वं सितं सौम्यं तमप्येवं तदाऽकरोत् ॥ ५३.२१॥
एवं कृते शरीरं तु ददर्श स पुनः प्रभुः ।
स्वकीयमेवाकस्यान्तः पितरं नृपसत्तम ॥ ५३.२२॥
त्रसरेणुसमं मूर्त्या अव्यक्तं सर्वजन्तुषु ।
समं दृष्ट्वा परं हर्षं उभे विसस्वरार्त्तवित् ॥ ५३.२३॥
एवंविधोऽसौ पुरुषः स्वरनामा महातपाः ।
मूर्त्तिस्तस्य प्रवृत्ताख्यं निवृत्ताख्यं शिरो महत् ॥ ५३.२४॥
एतस्मादेव तस्याशु कथया राजसत्तम ।
संभूतिरभवद् राजन् विवृत्तेस्त्वेष एव तु ॥ ५३.२५॥
एषेतिहासः प्रथमः सर्वस्य जगतो भृशम् ।
य इमं वेत्ति तत्त्वेन साक्षात् कर्मपरो भवेत् ॥ ५३.२६॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिपञ्चाशोऽध्यायः ॥ ५३॥
भद्राश्व उवाच ।
विज्ञानोत्पत्तिकामस्य क आराध्यो भवेद् द्विज ।
कथं चाराध्यतेऽसौ हि एतदाख्याहि मे द्विज ॥ ५४.१॥
अगस्त्य उवाच ।
विष्णुरेव सदाराध्यः सर्वदेवैरपि प्रभुः ।
तस्योपायं प्रवक्ष्यामि येनासौ वरदो भवेत् ॥ ५४.२॥
रहस्यं सर्वदेवानां मुनीनां मनुजांस्तथा ।
नारायणः परो देवस्तं प्रणम्य न सीदति ॥ ५४.३॥
श्रूयते च पुरा राजन् नारदेन महात्मना ।
कथितं तुष्टिदं विष्णोर्व्र्तमप्सरसां तथा ॥ ५४.४॥
नारदस्तु पुरा कल्पे गतवान् मानसं सरः ।
स्नानार्थं तत्र चजापश्यत् सर्वमप्सरसां गणम् ॥ ५४.५॥
तास्तं दृष्ट्वा विलासिन्यो जटामुकुटधारिणम् ।
अस्थिचर्मावशेषं तु छत्रदण्डकपालिनम् ॥ ५४.६॥
देवासुरमनुष्याणां दिदृक्षुं कलहप्रियम् ।
ब्रह्मपुत्रं तपोयुक्तं पप्रच्छुस्ता वराङ्गनाः ॥ ५४.७॥
अप्सरस ऊचुः ।
भगवन् ब्रह्मतनय भर्तृकामा वयं द्विज ।
नारायणश्च भर्त्ता नो यथा स्यात् तत् प्रचक्ष्व नः ॥ ५४.८॥
नारद उवाच ।
प्रणामपूर्वकः प्रश्नः सर्वत्र विहितः शुभः ।
स च मे न कृतो गर्वाद् युष्माभिर्यौवनस्मयात् ॥ ५४.९॥
तथापि देवदेवस्य विष्णोर्यन्नामकीर्तितम् ।
भवतीभिस्तथा भर्त्ता भवत्विति हरिः कृतः ।
तन्नामोच्चारणादेव कृतं सर्वं न संशयः ॥ ५४.१०॥
इदानीं कथयाम्याशु व्रतं येन हरिः स्वयम् ।
वरदत्वमवाप्नोति भर्तृत्वं च नियच्छति ॥ ५४.११॥
नारद उवाच ।
वसन्ते शुक्लपक्षस्य द्वादशी या भवेच्छुभा ।
तस्यामुपोष्य विधिवन् निशायां हरिमर्च्चयेत् ॥ ५४.१२॥
पर्यङ्कास्तरणं कृत्वा नानाचित्रसमन्वितम् ।
तत्र लक्ष्म्या युतं रौप्यं हरिं कृत्वा निवेशयेत् ॥ ५४.१३॥
तस्योपरि ततः पुष्पैर्मण्डपं कारयेद् बुधः ।
नृत्यवादित्रगेयैश्च जागरं तत्र कारयेत् ॥ ५४.१४॥
मनोभवायेति शिर अनङ्गायेति वै कटिम् ।
कामाय बाहुमूले तु सुशास्त्रायेति चोदरम् ॥ ५४.१५॥
मन्मथायेति पादौ तु हरयेति च सर्वतः ।
पुष्पैः सम्पूज्य देवेशं मल्लिकाजातिभिस्तथा ॥ ५४.१६॥
पश्चाच्चतुर आदाय इक्षुदण्डान् सुशोभनान् ।
चतुर्दिक्षु न्यसेत् तस्य देवस्य प्रणतो नृप ॥ ५४.१७॥
एवं कृत्वा प्रभाते तु प्रदद्याद् ब्राह्मणाय वै ।
वेदवेदाङ्गयुक्ताय सम्पूर्णाङ्गाय धीमते ॥ ५४.१८॥
ब्राह्मणांश्च तथा पूज्य व्रतमेतत् समापयेत् ।
एवं कृते तथा विष्णुर्भर्त्ता वो भविता ध्रुवम् ॥ ५४.१९॥
अकृत्वा मत्प्रणामं तु पृष्टो गर्वेण शोभनाः ।
अवमानस्य तस्यायं विपाको वो भविष्यति ॥ ५४.२०॥
एतस्मिन्नेव सरसि अष्टावक्रो महामुनिः ।
तस्योपहासं कृत्वा तु शापं लप्स्यथ शोभनाः ॥ ५४.२१॥
व्रतेनानेन देवेशं पतिं लब्ध्वाऽभिमानतः ।
अवमानेऽपहरणं गोपालैर्वो भविष्यति ।
पुरा हर्त्ता च कन्यानां देवो भर्त्ता भविष्यति ॥ ५४.२२॥
अगस्त्य उवाच ।
एवमुक्त्वा स देवर्षिः प्रययौ नारदः क्षणात् ।
ता अप्येतद् व्रतं चक्रुस्तुष्टश्चासां स्वयं हरिः ॥ ५४.२३॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःपञ्चाशोऽध्यायः ॥ ५४॥
अगस्त्य उवाच ।
शृणु राजन् महाभाग व्रतानामुत्तमं व्रतम् ।
येन सम्प्राप्यते विष्णुः शुभेनैव न संशयः ॥ ५५.१॥
मार्गशीर्षेऽथ मासे तु प्रथमाह्नात् समारभेत् ।
एकभक्तं सिते पक्षे यावत् स्याद् दशमी तिथिः ॥ ५५.२॥
ततो दशम्यां मध्याह्ने स्नात्वा विष्णुं समर्च्य च ।
भक्त्या संकल्पयेत् प्राग्वद् द्वादशीं पक्षतो नृप ॥ ५५.३॥
तामप्येवमुषित्वा च यवान् विप्राय दापयेत् ।
कृष्णायेति हरिर्वाच्यो दाने होमे तथार्च्चने ॥ ५५.४॥
चातुर्मास्यमथैवं तु क्षपित्वा राजसत्तम ।
चैत्रादिषु पुनस्तद्वदुपोष्य प्रयतः सुधीः ।
सक्तुपात्राणि विप्राणां सहिरण्यानि दापयेत् ॥ ५५.५॥
श्रावणादिषु मासेषु तद्वच्छालिं प्रदापयेत् ।
त्रिषु मासेषु यावच्च कार्त्तिकस्यादिरागतः ॥ ५५.६॥
तमप्येवं क्षपित्वा तु दशम्यां प्रयतः शुचिः ।
अर्चयित्वा हरिं भक्त्या मासनाम्ना विचक्षणः ॥ ५५.७॥
संकल्पं पूर्ववद् भक्त्या द्वादश्यां संयतेन्द्रियः ।
एकादश्यां यथाशक्त्या कारयेत् पृथिवीं नृप ॥ ५५.८॥
काञ्चनाङ्गां च पातालकुलपर्वतसंयुताम् ।
भूमिन्यासविधानेन स्थापयेत् तां हरेः पुरः ॥ ५५.९॥
सितवस्त्रयुगच्छन्नां सर्वबीजसमन्विताम् ।
सम्पूज्य प्रियदत्तेति पञ्चरत्नैर्विचक्षणः ॥ ५५.१०॥
जागरं तत्र कुर्वीत प्रभाते तु पुनर्द्विजान् ।
आमन्त्र्यं संख्यया राजंश्चतुर्विंशति यावतः ॥ ५५.११॥
तेषां एकैकशो गां च अनड्वाहं च दापयेत् ।
एकैकं वस्त्रयुग्मं च अङ्गुलीयकमेव च ॥ ५५.१२॥
कटकानि च सौवर्णकर्णाभरणकानि च ।
एकैकं ग्राममेतेषां राजा राजन् प्रदापयेत् ॥ ५५.१३॥
तन्मध्यमं सयुग्मं तु सर्वमाद्यं प्रदापयेत् ।
स्वशक्त्याभरणं चैव दरिद्रस्य स्वशक्तितः ॥ ५५.१४॥
यथाशक्त्या महीं कृत्वा काञ्चनीं गोयुगं तथा ।
वस्त्रयुग्मं च दातव्यं यथाविभवशक्तितः ॥ ५५.१५॥
गां युग्माभरणात् सर्वं सहिरण्यं च कारयेत् ।
एवं कृते तथा कृष्णशुक्लद्वादश्यमेव च ॥ ५५.१६॥
रौप्यां वा पृथिवीं कृत्वा यथाविभवशक्तितः ।
दापयेद् ब्राह्मणानां तु तथा तेषां च भोजनम् ।
उपानहौ यथाशक्त्या पादुके छत्रिकां तथा ॥ ५५.१७॥
एतान् दत्त्वा वदेदेवं कृष्णो दामोदरो मम ।
प्रीयतां सर्वदा देवो विश्वरूपो हरिर्मम ॥ ५५.१८॥
दाने च भोजने चैव कृत्वा यत् फलमाप्यते ।
तन्न शक्यं सहस्रेण वर्षाणामपि कीर्तितुम् ॥ ५५.१९॥
तथाप्युद्देशतः किञ्चित् फलं वक्ष्यामि तेऽनघ ।
व्रतस्यास्य पुरा वृत्तं शुभान्यस्य शृणुष्व तत् ॥ ५५.२०॥
आसीदादियुगे राजा ब्रह्मवादी दृढव्रतः ।
स पुत्रकामः पप्रच्छ ब्रह्माणं परमेष्ठिनम् ।
तस्येदं व्रतमाचख्यौ ब्रह्मा स कृतवांस्तथा ॥ ५५.२१॥
तस्य व्रतान्ते विश्वात्मा स्वयं प्रत्यक्षतां ययौ ।
तुष्टश्चोवाच भो राजन् वरो मे व्रियतां वरः ॥ ५५.२२॥
राजोवाच ।
पुत्रं मे देहि देवेश वेदमन्त्रविशारदम् ।
याजकं यजनासक्तं कीर्त्या युक्तं चिराभुषम् ।
असंख्यातगुणं चैव ब्रह्मभूतमकल्मषम् ॥ ५५.२३॥
एवमुक्त्वा ततो राजा पुनर्वचनमब्रवीत् ।
ममाप्यन्ते शुभं स्थानं प्रयच्छ परमेश्वर ।
यतन्मुनिपदं नाम यत्र गत्वा न शोचति ॥ ५५.२४॥
एवमस्त्विति तं देवः प्रोक्त्वा चादर्शनं गतः ।
तस्यापि राज्ञः पुत्रोऽभूद् वत्सप्रीर्नाम नामतः ॥ ५५.२५॥
वेदवेदाङ्गसम्पन्नो यज्ञयाजी बहुश्रुतः ।
तस्य कीर्त्तिर्महाराज विस्तृता धरणीतले ॥ ५५.२६॥
राजाऽपि तं सुतं लब्ध्वा विष्णुदत्तं प्रतापिनम् ।
जगाम तपसे युक्तः सर्वद्वन्द्वान् प्रहाय सः ॥ ५५.२७॥
आराधयामास हरिं निराहारो जितेन्द्रियः ।
हिमवत्पर्वते रम्ये स्तुतिं कुर्वंस्तदा नृपः ॥ ५५.२८॥
भद्राश्व उवाच ।
कीदृशी सा स्तुतिर्ब्रह्मन् यां चकार स पार्थिवः ।
किं च तस्याभवद् देवं स्तुवतः पुरुषोत्तमम् ॥ ५५.२९॥
दुर्वासा उवाच ।
हिमवन्तं समाश्रित्य राजा तद्गतमानसः ।
स्तुतिं चकार देवाय विष्णवे प्रभविष्णवे ॥ ५५.३०॥
राजोवाच ।
क्षराक्षरं क्षीरसमुद्रशायिनं
क्षितीधरं मूर्तिमतां परं पदम् ।
अतीन्द्रियं विश्वभुजां पुरः कृतं
निराकृतं स्तौमि जनार्दनं प्रभुम् ॥ ५५.३१॥
त्वमादिदेवः परमार्थरूपी
विभुः पुराणः पुरुषोत्तमश्च ।
अतीन्द्रियो वेदविदां प्रधानः
प्रपाहि मां शङ्खगदास्त्रपाणे ॥ ५५.३२॥
कृतं त्वया देव सुरासुराणां
संकीर्त्यतेऽसौ च अनन्तमूर्ते ।
सृष्ट्यर्थमेतत् तव देव विष्णो
न चेष्टितं कूटगतस्य तत्स्यात् ॥ ५५.३३॥
तथैव कूर्मत्वमृगत्वमुच्चै -
स्त्वया कृतं रूपमनेकरूप ।
सर्वज्ञभावादसकृच्च जन्म
संकीर्त्त्यते तेऽच्युत नैतदस्ति ॥ ५५.३४॥
नृसिंह नमो वामन जमदग्निनाम
दशास्यगोत्रान्तक वासुदेव ।
नमोऽस्तु ते बुद्ध कल्किन् खगेश
शंभो नमस्ते विबुधारिनाशन ॥ ५५.३५॥
नमोऽस्तु नारायण पद्मनाभ
नमो नमस्ते पुरुषोत्तमाय ।
नमः समस्तामरसङ्घपूज्य
नमोऽस्तु ते सर्वविदां प्रधान ॥ ५५.३६॥
नमः करालास्य नृसिंहमूर्त्ते
नमो विशालाद्रिसमान कूर्म ।
नमः समुद्रप्रतिमान मत्स्य
नमामि त्वां क्रोडरूपिननन्त ॥ ५५.३७॥
सृष्ट्यर्थमेतत् तव देव चेष्टितं
न मुख्यपक्षे तव मूर्त्तिता विभो ।
अजानता ध्यानमिदं प्रकाशितं
नैभिर्विना लक्ष्यसे त्वं पुराण ॥ ५५.३८॥
आद्यो मखस्त्वं स्वयमेव विष्णो
मखाङ्गभूतोऽसि हविस्त्वमेव ।
पशुर्भवान् ऋत्विगिज्यं त्वमेव
त्वां देवसङ्घा मुनयो यजन्ति ॥ ५५.३९॥
यदेतस्मिन् जगध्रुवं चलाचलं
सुरादिकालानलसंस्थमुत्तमम् ।
न त्वं विभक्तोऽसि जनार्दनेश
प्रयच्छ सिद्धिं हृदयेप्सितां मे ॥ ५५.४०॥
नमः कमलपत्राक्ष मूर्त्तामूर्त्त नमो हरे ।
शरणं त्वां प्रपन्नोऽस्मि संसारान्मां समुद्धर ॥ ५५.४१॥
एवं स्तुतस्तदा देवस्तेन राज्ञा महात्मना ।
विशालाम्रतलस्थेन तुतोष परमेश्वरः ॥ ५५.४२॥
कुब्जरूपी ततो भूत्वा आजगाम हरिः स्वयम् ।
तस्मिन्नागतमात्रे तु सीप्याम्रः कुब्जकोऽभवत् ॥ ५५.४३॥
तं दृष्ट्वा महदाश्चर्यं स राजा संशितव्रतः ।
विशालस्य कथं कौब्ज्यमिति चिन्तापरोभवत् ॥ ५५.४४॥
तस्य चिन्तयतो बुद्धिर्बभौ तं ब्राह्मणं प्रति ।
अनेनागतमात्रेण कृतमेतन्न संशयः ॥ ५५.४५॥
तस्मादेषैव भविता भगवान् पुरुषोत्तमः ।
एवमुक्त्वा नमश्चक्रे तस्य विप्रस्य स नृपः ॥ ५५.४६॥
अनुग्रहाय भगवन् नूनं त्वं पुरुषोत्तमः ।
आगतोऽसि स्वरूपं मे दर्शयस्वाधुना हरे ॥ ५५.४७॥
एवमुक्तस्तदा देवः शङ्खचक्रगदाधरः ।
बभौ तत्पुरतः सौम्यो वाक्यं चेदमुवाच ह ॥ ५५.४८॥
वरं वृणीष्व राजेन्द्र यत्ते मनसि वर्तते ।
मयि प्रसन्ने त्रैलोक्य तिलमात्रमिदं नृप ॥ ५५.४९॥
एवमुक्तस्ततो राजा हर्षोत्फुल्लितलोचनः ।
मोक्षं प्रयच्छ देवेशेत्युक्त्वा नोवाच किंचन ॥ ५५.५०॥
एवमुक्तः स भगवान् पुनर्वाक्यमुवाच ह ।
मय्यागते विशालोऽयमाम्रः कुब्जत्वमागतः ।
यस्मात् तस्मात् तीर्थमिदं कुब्जकाम्रं भविष्यति ॥ ५५.५१॥
तिर्यग्योन्यादयोऽप्यस्मिन् ब्राह्मणान्ता यदि स्वकम् ।
कलेवरं त्यजिष्यन्ति तेषां पञ्चशतानि च ।
विमानानि भविष्यन्ति योगिनां मुक्तिरेव च ॥ ५५.५२॥
एवमुक्त्वा नृपं देवः शङ्खाग्रेण जनार्दनः ।
पस्पर्श स्पृष्टमात्रोऽसौ परं निर्वाणमाप्तवान् ॥ ५५.५३॥
तस्मात्त्वमपि राजेन्द्र तं देवं शरणं व्रज ।
येन भूयः पुनः शोच्यपदवीं नो प्रयास्यसि ॥ ५५.५४॥
य इदं शृणुयान्नित्यं प्रातरुत्थाय मानवः ।
पठेद् यश्चरितं ताभ्यां मोक्षधर्मार्थदो भवेत् ॥ ५५.५५॥
शुभव्रतमिदं पुण्यं यश्च कुर्याज्जनेश्वर ।
स सर्वसम्पदं चेह भुक्त्वेते तल्लयं व्रजेत् ॥ ५५.५६॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चपञ्चाशोऽध्यायः ॥ ५५॥
अगस्त्य उवाच ।
अतः परं प्रवक्ष्यामि धन्यव्रतमनुत्तमम् ।
येन सद्यो भवेद् धन्य अधन्योऽपि हि यो भवेत् ॥ ५६.१॥
मार्गशीर्षे सिते पक्षे प्रतिपद् या तिथिर्भवेत् ।
तस्यां नक्तं प्रकुर्वीत विष्णुमग्निं प्रपूजयेत् ॥ ५६.२॥
वैश्वानराय पादौ तु अग्नयेत्युदरं तथा ।
हविर्भुंजाय च उरो द्रविणोदेति वै भुजो ॥ ५६.३॥
संवर्त्तायेति च शिरो ज्वलनायेति सर्वतः ।
अभ्यर्च्यैवं विधानेन देवदेवं जनार्दनम् ॥ ५६.४॥
तस्यैव पुरतः कुण्डं कारयित्वा विघानतः ।
होमं तत्र प्रकुर्वीत एभिर्मन्त्रैर्विचक्षणः ॥ ५६.५॥
ततः संयावकं चान्नं भुञ्जीयाद् घृतसंयुतम् ।
कृष्णपक्षेऽप्येवमेव चातुर्मास्यं तु यावतः ॥ ५६.६॥
चैत्रादिषु च भुञ्जीत पायसं सघृतं बुधः ।
श्रावणादिषु सक्तूंश्च ततश्चैतत् समाप्यते ॥ ५६.७॥
समाप्ते तु व्रते वह्निं काञ्चनं कारयेद् बुधः ।
रक्तवस्त्रयुगच्छन्नं रक्तपुष्पानुलेपनम् ॥ ५६.८॥
कुङ्कुमेन तथा लिप्य ब्राह्मणं देवदेव च ।
सर्वावयवसम्पूर्णं ब्राह्मणं प्रियदर्शनम् ॥ ५६.९॥
पूजयित्वा विधानेन रक्तवस्त्रयुगेन च ।
पश्चात् तं दापयेत् तस्य मन्त्रेणानेन बुद्धिमान् ॥ ५६.१०॥
धन्योऽस्मि धन्यकर्माऽस्मि धन्यचेष्टोऽस्मि धन्यवान् ।
धन्येनानेन चीर्णेन व्रतेन स्यां सदा सुखी ॥ ५६.११॥
एवमुच्चार्य तं विप्रे न्यस्य कोशं महात्मनः ।
सद्यो धन्यत्वमाप्नोति योऽपि स्याद् भाग्यवर्जितः ॥ ५६.१२॥
इह जन्मनि सौभाग्यं धनं धान्यं च पुष्कलम् ।
अनेन कृतमात्रेण जायते नात्र संशयः ॥ ५६.१३॥
प्राग्जन्मजनितं पापमग्निर्दहति तस्य ह ।
दग्धे पापे विमुक्तात्मा इह जन्मन्यसौ भवेत् ॥ ५६.१४॥
योऽपीदं शृणुयान्नित्यं यश्च भक्त्या पठेद् द्विजः ।
उभौ ताविह लोके तु धन्यौ सद्यो भविष्यतः ॥ ५६.१५॥
श्रूयते च व्रतं चैतच्चीर्णमासीन्महात्मना ।
धनदेन पुरा कल्पे शूद्रयोनौ स्थितेन तु ॥ ५६.१६॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्पञ्चाशोऽध्यायः ॥ ५६॥
अगस्त्य उवाच ।
अतः परं प्रवक्ष्यामि कान्तिव्रतमनुत्तमम् ।
यत्कृत्वा तु पुरा सोमः कान्तिमानभवत् पुनः ॥ ५७.१॥
यक्ष्मणा दक्षशापेन पुराक्रान्तो निशाकरः ।
एतच्चीर्त्वा व्रतं सद्यः कान्तिमानभवत् किल ॥ ५७.२॥
द्वितीयायां तु राजेन्द्र कार्त्तिकस्य सिते दिने ।
नक्तं कुर्वीत यत्नेन अर्चयन् बलकेशवम् ॥ ५७.३॥
बलदेवाय पादौ तु केशवाय शिरोऽर्चयेत् ।
एवमभ्यर्च्य मेधावी वैष्णवं रूपमुत्तमम् ॥ ५७.४॥
परस्वरूपं सोमाख्यं द्विकलं तद्दिने हि यत् ।
तस्यार्घं दापयेद् धीमान् मन्त्रेण परमेष्ठिनः ॥ ५७.५॥
नमोऽस्त्वमृतरूपाय सर्वौषधिनृपाय च ।
यज्ञलोकाधिपतये सोमाय परमात्मने ॥ ५७.६॥
अनेनैव च मार्गेण दत्त्वार्घ्यं परमेष्ठिनः ।
रात्रौ सविप्रो भुञ्जीत यवान्नं सघृतं नरः ॥ ५७.७॥
फाल्गुनादिचतुष्के तु पायसं भोजयेच्छुचिः ।
शालिहोमं तु कुर्वीत कार्त्तिके तु यवैस्तथा ॥ ५७.८॥
आषाढादिचतुष्के तु तिलहोमं तु कारयेत् ।
तद्वत् तिलान्नं भुञ्जीत एष एव विधिक्रमः ॥ ५७.९॥
ततः संवत्सरे पूर्णे शशिनं कृतराजतम् ।
सितवस्त्रयुगच्छन्नं सितपुष्पानुलेपनम् ।
एवमेव द्विजं पूज्य ततस्तं प्रतिपादयेत् ॥ ५७.१०॥
कान्तिमानपि लोकेऽस्मिन् सर्वज्ञः प्रियदर्शनः ।
त्वत्प्रसादात् सोमरूपिन् नारायण नमोऽस्तु ते ॥ ५७.११॥
अनेन किल मन्त्रेण दत्त्वा विप्राय वाग्यतः ।
दत्तमात्रे ततस्तस्मिन् कान्तिमान् जायते नरः ॥ ५७.१२॥
आत्रेयेणापि सोमेन कृतमेतत् पुरा नृप ।
तस्य व्रतान्ते संतुष्टः स्वयमेव जनार्दनः ।
यक्ष्माणमपनीयाशु अमृताख्यां कलां ददौ ॥ ५७.१३॥
तां कलां सोमराजाऽसौ तपसा लब्धवानिति ।
सोमत्वं चागमत् सोऽस्य ओषधीनां पतिर्बभौ ॥ ५७.१४॥
द्वितीयामश्विनौ सोमभुजौ कीर्त्येते तद्दिने नृप ।
तौ शेषविष्णू विख्यातौ मुख्यपक्षौ न संशयः ॥ ५७.१५॥
न विष्णोर्व्यतिरिक्तं स्याद् दैवतं नृपसत्तम ।
नामभेदेन सर्वत्र संस्थितः परमेश्वरः ॥ ५७.१६॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तपञ्चाशोऽध्यायः ॥ ५७॥
Related Links:
Subscribe to:
Comments (Atom)